(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.18. अध्यायः 018
Mahabharata - Shalya Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥


Mahabharata - Shalya Parva - Chapter Text

सञ्जय उवाच। 9-18-0x(5114)(61115)
पातिते युधि दुर्धर्षे मद्रराजे महारथे।
तावकास्तव पुत्राश्च प्रायशो विमुखाऽभवन्॥ 9-18-1(61116)
वणिजो नावि भिन्नायां यथागाधे महार्णवे।
अपारे पारमिच्छन्तो हते शूरे महात्मनि॥ 9-18-2(61117)
मद्रराजे महाराज वित्रस्ताः शरविक्षताः।
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव॥ 9-18-3(61118)
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता यथा गजाः।
मध्याह्ने प्रत्यपायाम निर्जिताऽजातशत्रुणा॥ 9-18-4(61119)
न संस्थातुमनीकानि न च राजन्पराक्रमे।
आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित्॥ 9-18-5(61120)
भीष्मे द्रोणे च निहते सूतपुत्रे च पातिते।
यद्दुःखं तव योधानां भयं चासीद्विशाम्पते॥ 9-18-6(61121)
तद्भयं स च नः शोको भूय एवाभ्यवर्तत।
निराशाश्च जये राजन्हते शल्ये महारथे॥ 9-18-7(61122)
हतप्रवीरा विध्वस्ता निकृत्ताश्च शितैः शरैः।
मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात्॥ 9-18-8(61123)
अश्वानन्ये गजानन्ये रथानन्ये महारथाः।
आरुह्य जवसम्पन्ना पादाताः प्राद्रवंस्तथा॥ 9-18-9(61124)
द्विसाहस्राश्च महातङ्गा गिरिरूपाः प्रहारिणः।
xxप्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठनोदिताः॥ 9-18-10(61125)
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः।
धावतश्चाप्यपश्याम श्वसमानाञ्शराहतान्॥ 9-18-11(61126)
तान्प्रभग्नान्हतान्दृष्ट्वा हतोत्साहान्पराजितान्।
अभ्यवर्तन्त पाञ्चालाः पाण्डवाश्च जयैषिणः॥ 9-18-12(61127)
बाणशब्दरवाश्चापि सिंहनादाश्च पुष्कलाः।
शङ्खशब्दश्च शूराणां दारुणः समपद्यत॥ 9-18-13(61128)
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम्।
अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह॥ 9-18-14(61129)
अद्य राजा सत्यधृतिर्हतामित्रो युधिष्ठिरः।
अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया॥ 9-18-15(61130)
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः।
निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपत्स्यते॥ 9-18-16(61131)
अद्य जानाति बीभत्सुं समर्थं स्वधन्विनाम्।
अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत्॥ 9-18-17(61132)
अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम्।
अद्यप्रभृति पार्थं च प्रेष्यभूत इवाचरन्।
विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः॥ 9-18-18(61133)
अद्य कृष्णस्य माहात्म्यं विजानातु महीपतिः।
अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे॥ 9-18-19(61134)
अत्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे।
`पुत्राणां च वधं घोरं भीमेन श्रोष्यते नृपः'॥ 9-18-20(61135)
अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः।
हते दुर्योधने युद्धे शक्रेणेव तु शम्बरे॥ 9-18-21(61136)
यत्कृतं भीमसेनेन दुःशासनवधे तदा।
कोऽन्यः कर्ताऽस्ति तल्लोके ऋते भीमान्महाबलात्। 9-18-22(61137)
अद्य ज्येष्ठस्य जानीतां पाण्डवस्य पराक्रमम्।
मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम्॥ 9-18-23(61138)
अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ सुदुःसहौ।
निहते सौबले वीरे गान्धारेषु च सर्वशः॥ 9-18-24(61139)
xxxx न तेषां स्याद्येषां योद्धा धनञ्जयः।
xxxxx धृष्टद्युम्नश्च पार्षतः॥ 9-18-25(61140)
xxxx पञ्च माद्रीपुत्रौ च पाण्डवौ।
शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः॥ 9-18-26(61141)
येषां च जगतो नाथो नाथः कृष्णो जनार्दनः।
कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः॥ 9-18-27(61142)
`लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः।
येषां नाथो हृषीकेशः सर्वलोकविभुर्हरिः'॥ 9-18-28(61143)
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च।
तथाऽन्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः॥ 9-18-29(61144)
कोऽन्यः शक्तो रणे जेतुमृते पार्थाद्युधिष्ठिरात्।
यस्य नाथो हृषीकेशः सदा सत्ययशोनिधिः॥ 9-18-30(61145)
इत्येवं वदमानास्ते हर्षेण महता युताः।
प्रभग्नांस्तावकान्योधान्संहृष्टाः पृष्ठतोऽन्वयुः॥ 9-18-31(61146)
धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान्।
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः॥ 9-18-32(61147)
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान्।
दुर्योधनस्तदा सूतमब्रवीद्विस्मयन्निव॥ 9-18-33(61148)
मामतिक्रमते पार्थो धनुष्पाणिमवस्थितम्।
जघने सर्वसैन्यानां शनैरश्वान्प्रचोदय॥ 9-18-34(61149)
जघने युध्यमानं हि कौन्तेयो मां न संशयः।
नोत्सहेदभ्यतिक्रान्तुं वेलामिव महोदधिः॥ 9-18-35(61150)
पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम्।
सैन्यरेणुं समुद्भूतं पश्य चैनं समन्ततः॥ 9-18-36(61151)
सिंहनादांश्च समुद्भूतं पश्य चैनं समन्ततः॥
तस्माद्याहि शनैः सूत जघनं परिपालय॥ 9-18-37(61152)
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु।
पुनरावर्तते तूर्णं मामकं बलमोजसा॥ 9-18-38(61153)
तच्छ्रुत्वा तव पुत्रस्य शूरस्य सदृशं वचः।
सारथिर्हेमसञ्छन्नाञ्शरैरश्वानचोदयत्॥ 9-18-39(61154)
गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः।
एकविंशतिसाहस्राः संयुगायावतस्थिरे॥ 9-18-40(61155)
नानादेशसमुद्भूता नानारञ्जितवाससः।
अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः॥ 9-18-41(61156)
तेषामापततां तत्र संहृष्टानां परस्परम्।
सम्मर्दः सुमहाञ्चज्ञे घोररूपो भयानकः॥ 9-18-42(61157)
भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम्।
बलेन चतुरङ्गेण नानादेश्यानवारयत्॥ 9-18-43(61158)
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः।
प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः॥ 9-18-44(61159)
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः।
धार्तराष्ट्रा विनेदुर्हि नान्यामकथनयन्कथाम्।
परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः॥ 9-18-45(61160)
स वध्यमानः समरे पदातिगणसंवृतः।
न चचाल ततः स्थानान्मैनाक इव पर्वतः॥ 9-18-46(61161)
ते तु क्रुद्धा महाराज पाण्डवस्य महारथम्।
निग्रहीतुं प्रवृत्ता हि योधांश्चान्यानवारयन्॥ 9-18-47(61162)
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः।
सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः॥ 9-18-48(61163)
जातरूपप्रतिच्छन्नां प्रगृह्य महतीं गदाम्।
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः॥ 9-18-49(61164)
रथाश्वविप्रहीणांस्तु तान्भीमो गदया बली।
एकविंशतिसाहस्रान्पदातीन्समपोथयत्॥ 9-18-50(61165)
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः।
धृष्टद्युम्नं पुरस्कृत्य न चिरात्प्रत्यदृश्यत॥ 9-18-51(61166)
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षितः।
सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः॥ 9-18-52(61167)
नानाशस्त्रसमायुक्ता नानाकुण्डलधारिणः।
नानाजात्या हतास्तत्र नादेशसमागताः॥ 9-18-53(61168)
पताकाध्वजसञ्छन्नं पदातीनां महद्बलम्।
निकृत्तं विबभौ रौद्रं घोररूपं भयावहम्॥ 9-18-54(61169)
युधिष्ठिरपुरोगाश्च सहसैन्या महारथाः।
अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव॥ 9-18-55(61170)
ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान्।
नाभ्यवर्तन्त ते पुत्रं वेलामिव महोर्मयः॥ 9-18-56(61171)
तदद्भुतमपश्याम तव पुत्रस्य पौरुषम्।
यदेकं सहिताः पार्था न शेकुरतिवर्तितुम्॥ 9-18-57(61172)
नातिदूरापयातं तु कृतबुद्वि पलायने।
दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम्॥ 9-18-58(61173)
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च।
यत्र यातान्न वा हन्युः पाण्डवाः किं सृतेन वः॥ 9-18-59(61174)
अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ।
यदि सर्वेऽत्र तिष्ठामो ध्रुवं नो विजयो भवेत्॥ 9-18-60(61175)
विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतविप्रियाः।
अनुयाय हनिष्यन्ति श्रेयान्नः समरे वधः॥ 9-18-61(61176)
शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः।
यदा शूरं च भीरुं च मारयत्यन्तकः सदा॥ 9-18-62(61177)
को नु मूढो न युध्येत पुरुषः क्षत्रियो ध्रुवम्।
श्रेयान्नो भीमसेनस्य क्रुद्धस्याभिमुखे स्थितः॥ 9-18-63(61178)
सुखः साङ्ग्रामिको मृत्युर्दुःखो व्याधिजरादिभिः।
मर्त्येनावश्यमर्तव्यं गृहेष्वपि कदाचन॥ 9-18-64(61179)
युध्यतः क्षत्रधर्मेण मृत्युरेष सनातनः।
हत्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम्॥ 9-18-65(61180)
न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः।
अचिरेणैव ताँल्लोकान्हतो युद्धे समश्नुते॥ 9-18-66(61181)
श्रुत्वा तद्वचनं तस्य पूजयित्वा च पार्थिवाः।
पुनरेवाभ्यवर्तन्त पाण्डवानाततायिनः॥ 9-18-67(61182)
तानापतत एवाशु व्यूढानीकाः प्रहारिणः।
प्रत्युद्ययुस्तदा पार्था जयगृद्धाः प्रमन्यवः॥ 9-18-68(61183)
धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान्।
विश्रुतं त्रिषु लोकेषु व्याक्षिपन्गाण्डिवं धनुः॥ 9-18-69(61184)
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः।
जवेनाभ्यपतन्हृष्टा यत्ता वै तावकं बलम्॥ ॥ 9-18-70(61185)

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे अष्टादशोऽध्यायः॥ 18 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-18-34 न मातेक्रमते पाथः इति ङ. पाठः। न मानसस्यते इति क.पाठः॥ 9-18-18 अष्टादशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.